वांछित मन्त्र चुनें

को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥

अंग्रेज़ी लिप्यंतरण

ko devayantam aśnavaj janaṁ ko vṛktabarhiṣam | pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṁ dadhe ||

मन्त्र उच्चारण
पद पाठ

कः । दे॒व॒यन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तब॑र्हिषम् । प्रप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒वाव॑त् । क्षय॑म् । द॒धे॒॥

ऋग्वेद » मण्डल:1» सूक्त:40» मन्त्र:7 | अष्टक:1» अध्याय:3» वर्ग:21» मन्त्र:2 | मण्डल:1» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

कोई ही मनुष्य विद्वान् मनुष्य को प्राप्त होकर विद्या को ग्रहण कर सकता है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - (कः) कौन मनुष्य (देवयन्तम्) विद्वानों की कामना करने और (कः) कौन (वृक्तबर्हिषम्) सब विद्याओं में कुशल सब ऋतुओं में यज्ञ करनेवाले (जनम्) सकल विद्याओं में प्रकट हुए मनुष्य को (अश्नवत्) प्राप्त तथा कौन (दाश्वान्) दानशील पुरुष (प्रास्थित) प्रतिष्ठा को प्राप्त होवे और कौन (पस्त्याभिः) उत्तमगृहवाली भूमि में (अन्तर्वावत्) सबके अन्तर्गत चलनेवाले वायु से युक्त (क्षयम्) निवास करने योग्य घरको (दधे) धारण करे ॥७॥
भावार्थभाषाः - सब मनुष्य विद्या प्रचार की कामनावाले उत्तम विद्वान् को नहीं प्राप्त होते और न सब दानशील होकर सब ऋतुओं में सुखरूप घर को धारण कर सकते हैं, किन्तु कोई ही भाग्यशाली विद्वान् मनुष्य इन सबको प्राप्त हो सकता है ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(कः) कश्चिदेव (देवयन्तं) देवानां कामयितारम् (अश्नवत्) प्राप्नुयात्। लेट् प्रयोगोयम्। (जनम्) सकल विद्याऽऽविर्भूतम् (कः) कश्चिदेव (वृक्तबर्हिषम्) सर्वविद्यासु कुशलमृत्विजम् (प्रप्र) प्रत्यर्थे। अत्र प्रसमुपोदः पादपूरणे अ० ८।१।६। इति द्वित्वम्। (दाश्वान्) दानशीलः (पस्त्याभिः) पस्त्यानि गृहाणि विद्यन्ते यासु भूमिषु ताभिः। पस्त्यमिति गृहना०। निघं० ३।४। ततः अर्शआदि#भ्योऽच्। अ० ५।२।१२७। (अस्थित) प्रतिष्ठते (अंतर्वावत्) अन्तर्मध्ये वाति गच्छति सोऽतर्वा वायुः स विद्यते यस्मिन् गृहे तत् (क्षयम्) क्षियन्ति निवसन्ति यस्मिँस्तत्। अत्र क्षिनिवासगत्योरित्यस्मात् एरच्* इत्यच्। भयादीनामितिवक्तव्यम् अ० ३।३।५६। इति नपुंसकत्वम्। (दधे) धरेत्। अत्र लिङर्थे लिट् ॥७॥ #[इत्यनेन मतुबर्थीयोऽच् प्रत्ययः। सं०] *[३।३।५६]

अन्वय:

कश्चिदेव विद्वांसं प्राप्य विद्याग्रहणं कर्त्तुं शक्नोतीत्युपदिश्यते।

पदार्थान्वयभाषाः - को मनुष्यो देवयन्तं कश्च वृक्तबर्हिषं जनमश्नवत्प्राप्नुयात् कोदाश्वान् प्रास्थित प्रतिष्ठिते को विद्वान् पस्त्याभिरंतर्वावत् क्षयं गृहं दधे धरेत् ॥७॥
भावार्थभाषाः - नैव सर्वे मनुष्या विद्याप्रचारकामं विद्वांसं प्राप्नुवन्ति नहि समस्ता दाश्वांसो भूत्वा सर्वर्तु सुखं गृहं धर्तुं शक्नुवन्ति। किन्तु कश्चिदेव भाग्यशाल्येतत्प्राप्नुमर्हतीति ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सर्व माणसांना विद्या प्रचाराची कामना असणाऱ्या उत्तम विद्वानांची संगत मिळत नाही. तसेच सर्वजण दानशील बनून सर्व ऋतूत सुखयुक्त घर धारण करू शकत नाहीत. तर एखादा भाग्यवान विद्वान माणूसच या सर्वांना प्राप्त करू शकतो. ॥ ७ ॥